Thursday, March 24, 2022

I just don't know ...

About :

--

I just don't know,

Who is / are viewing this blog,

For whatsoever reasons.

But I would sure like to thank them all.

Obeisance :

At the Holy feet of Lord Sri-Krishna, who dwells in the heart of all and everyone! 

Regards!

May Krishna shower His Blessings / grace upon all who go through / study / worship / adore / follow this great text.

***

श्री भगवानुवाच :

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति।। 

भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया।।६१।।

तमेव शरणं गच्छ सर्वभावेन भारत।। 

तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्।।६२।।

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया।। 

विमृश्यैतदशेषेण यथेच्छसि तथा कुरु।।६३।।

सर्वगुह्यतमं भूयः शृणु मे परमं वचः।। 

इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ।।६४।।

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।। 

मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे।।६५।।

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज।। 

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।।६६।।

इदं ते नातपस्काय नाभक्ताय कदाचन।।

न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति।।६७।।

य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति।। 

भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः।।६८।।

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः।।

भविता न च मे तस्मादन्यः प्रियतरो भुवि।।६९।।

अध्येष्यते च य इमं धर्म्यं संवादमावयोः।। 

ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः।।७०।।

श्रद्धावाननसूयश्च शृणुयादपि यो नरः।। 

सोऽपि मुक्तः शुभान्लोकान्प्राप्नुयात्पुण्यकर्मणाम्।।७१।।

कच्चितैच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा।।

कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय।।७२।।

अर्जुन उवाच :

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत।।

स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव।।७३।।

सञ्जय उवाच :

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः।। 

संवादमिममश्रौषमद्भुतं रोमहर्षणम्।।७४।।

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्।। 

योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम्।।७५।।

राजन्स्मृसंत्य संस्मृत्य संवादमिममद्भुतम्।। 

केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः।।७६।।

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः।। 

विस्मयो मे महान्-राजन्-हृष्यामि च पुनः पुनः।।७७।।

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।। 

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम।।७८।।

***

समाप्तमिदं गीताशास्त्रम् ।।

ॐ नमो भगवते वासुदेवाय 

।।श्रीकृष्णार्पणमस्तु।।

***