अध्याय २
दूरेणह्यवरं कर्म बुद्धियोगाद्धनञ्जय।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः।।४९।।
The culmination of this doctrine is again affirmed in the following verses of the Chapter 10 :
एतां विभूतियोगं च मम यो वेत्ति तत्वतः।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः।।७।।
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः।।८।।
मच्चिता मद्गतप्राणाः बोधयन्तः परस्परम्।
कथयन्तं च मां नित्यं तुष्यन्ति च रमन्ति च।।९।।
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते।।१०।।
This is how the two kinds of निष्ठा; (that are synonymous with the three kinds of श्रद्धा ) define the eligibility of a spiritual seeker
लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ।
सांख्ययोगेन ज्ञानीनां कर्मयोगेन योगिनाम्।।
And,
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।
सात्विकी राजसी चैव तामसी चैव तां शृणु।।
अध्याय ७
बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते।
वासुदेवः सर्वमिदं स महात्मा सुदुर्लभः।।१९।।
अध्याय ४
श्रीभगवानुवाच -
इमं विवस्वते योगं प्रोक्तवानहमव्ययः।
विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।।१।।
एवं परंपराप्राप्तमिमं राजर्षयो विदुः।
स कालेनेह महता योगो नष्टः परन्तप।।२।।
स एवायं ते मयाऽद्य योगः प्रोक्तः पुरातनः।
भक्तोऽसि मे सखा चेति रहस्यमेतदनुत्तमम्।।३।।
अर्जुन उवाच -
अपरं भवतो जन्म परं जन्म विवस्वतः।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति।।४।।
श्रीभगवानुवाच -
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप।।५।।
अध्याय १०
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जय।
मुनीनामप्यहं व्यासः कवीनामुशना कविः।।३७।।
(कठोपनिषद् - उशनस् वाजश्रवसः ...)
उशनस् - उशना इति वाजश्रवा इति ज्ञातव्यम्
अध्याय ११
इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः।
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर्महात्मा।।५०।।
In this way the Manifest Existence, the world of perceptions is but a part of the Supreme Self Who enters this Manifest Existence. The same has been declared in the following verse of Chapter 10 -
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन।
विष्टभ्याहमिदं कृत्स्नमेकांशेनस्थितो जगत्।।४२।।
***
No comments:
Post a Comment