Thursday, May 9, 2024

आवृतम्

3/38, 3/39, 5/14, 5/15, 5/16

अध्याय ३

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः।।

अहङ्कारविमूढात्मा कर्ताहमिति मन्यते।।२७।।

तत्ववित्तु महाबाहो गुणकर्मविभागयोः।।

गुणा गुणेषु वर्तन्ते इति मत्वा न सज्जते।।२८।।

प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु।।

तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्।।२९।।

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा।।

निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।।३०।।

धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च।।

यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्।।३८।।

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा।।

कामरूपेण कौन्तेय दुष्पूरेणानलेन च।।३९।।

अध्याय ५

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः।।

न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते।।१४।।

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः।।

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः।।१५।।

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः।।

तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्।।१६।।

--

This was written with a view to answer my Daily Prompt of today 09 May 2024.

--







No comments:

Post a Comment